श्रीसुखानन्दाचार्यकृतं श्रीचित्रकूटमङ्गलम्

(Śrī-Citrakūṭa-maṅgalam Composed by Śrī Sukhānandācārya)

श्रीसीतेशसमारम्भां श्रीशुकाचार्यमध्यमाम् ।
अस्मदाचार्यंपर्यन्तां वन्दे गुरुपरम्पराम् ॥१॥

सीतारामपदाम्भोजैरङ्किता यद्वसुन्धरा ।
तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम् ॥२॥

मञ्जुमन्दाकिनी यत्र राजते भक्तिमुक्तिदा ।
तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम् ॥३॥

रम्या विहारभूमिश्च यत्रास्ति रामसीतयोः ।
तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम्॥४॥

यस्मिंश्च श्रूयते नित्यं कथाकीर्त्तनजो ध्वनिः ।
तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम् ॥५॥

लभते यत्र वासाद्धि पुरुषार्थचतुष्टयम् ।
तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम् ॥६॥

सदैव सेव्यते यश्च दैवैः सिद्धैर्महर्षिभिः ।
तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम् ॥७॥

द्वारपीठाधिपश्रीमत्सुखानन्दविनिर्मितम् ।
मङ्गलं भवतादेतत् पठतां मङ्गलप्रदम् ॥९॥

॥ इति श्रीसुखानन्दाचार्यकृतं श्रीचित्रकूटमङ्गलम् सम्पूर्णम् ॥

śrīsītēśasamārambhāṃ śrīśukācāryamadhyamām ।
asmadācāryaṃparyantāṃ vandē guruparamparām ॥1॥

sītārāmapadāmbhōjairaṅkitā yadvasundharā ।
tasmai citraprabhāvāya citrakūṭāya maṅgalam ॥2॥

mañjumandākinī yatra rājatē bhaktimuktidā ।
tasmai citraprabhāvāya citrakūṭāya maṅgalam ॥3॥

ramyā vihārabhūmiśca yatrāsti rāmasītayōḥ ।
tasmai citraprabhāvāya citrakūṭāya maṅgalam॥4॥

yasmiṃśca śrūyatē nityaṃ kathākīrttanajō dhvaniḥ ।
tasmai citraprabhāvāya citrakūṭāya maṅgalam ॥5॥

labhatē yatra vāsāddhi puruṣārthacatuṣṭayam ।
tasmai citraprabhāvāya citrakūṭāya maṅgalam ॥6॥

sadaiva sēvyatē yaśca daivaiḥ siddhairmaharṣibhiḥ ।
tasmai citraprabhāvāya citrakūṭāya maṅgalam ॥7॥

dvārapīṭhādhipaśrīmatsukhānandavinirmitam ।
maṅgalaṃ bhavatādētat paṭhatāṃ maṅgalapradam ॥9॥

॥ iti śrīsukhānandācāryakṛtaṃ śrīcitrakūṭamaṅgalam sampūrṇam ॥


Share this page

 

॥ श्रीसीतारामचन्द्रार्पणमस्तु ॥