वेदकृद् राघवं ब्रह्म सूत्रकृद्बादरायणम् ।
बोधायनं च वन्देऽहं वृत्तिकृत्पुरुषोत्तमम्॥१॥
आनन्दभाष्यकृद्रामानन्दाचार्यं प्रणम्य च।
मोदाय विदुषां कुर्वे सद्विद्यार्थस्य निर्णयम्॥२॥
उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥३॥
अर्थनिर्णायकानीति लिङ्गानि षड्विधानि हि ।
कुर्वन्ति तानि निर्दोषं सद्विद्यार्थीविनिर्णयम्॥४॥
ब्रह्म च सविशेषं हि सद्विद्याविषयो मतः।
उपक्रमे 'सदेवेति' श्रुत्या यद् ब्रह्म बोधितम् ॥५॥
उपादानं निमित्तं च कारणं द्विविधं खलु ।
ततश्च सर्वशक्तित्वं सर्वज्ञत्वं च तत्र हि॥६॥
सविशेषं तथा ब्रह्मोपसंहारेऽपि बोध्यते।
तत्पदत्वम्पदाभ्यां च सामानाधिकरण्यतः॥७॥
यतस्तत्पदतश्चात्र परं ब्रह्मैव बोध्यते ।
ज्ञाप्यते त्वद्वपुष्कं हि ब्रह्म त्वम्पदतस्तथा॥८॥
प्रकारिणोस्ततश्चैक्यं ब्रह्मणोरत्र सम्मतम् ।
जीवात्मब्रह्मणोर्नैक्यं देहदेहिस्वरूपयोः ॥९॥
सामानाधिकरण्यं न यद्येकवाचिता न हि।
जघन्या लक्षणा बोध्या शक्तितो बोधसम्भवे ॥१०॥
तत्त्वमसीतिवाक्यस्य नववारप्रयोगतः।
अभ्यासोऽपि वदत्यत्र ब्रह्मणः सविशेषताम्॥११॥
वर्त्ततेऽपूर्वता चात्र यतः श्रुत्यैव निश्चिता ।
हेतुता जगतो रामे सकलान्तर्नियन्तृता ॥१२॥
‘यावन्न विमोक्ष्ये’ श्रुत्याः ‘सम्पत्स्ये’ इति शब्दतः ।
फलेऽपि प्राप्यत्वोक्तेश्च ब्रह्मणः सविशेषता॥१३॥
तदर्थे चार्थवादोऽपि सद्विद्यायां च विद्यते।
कथिता हि कथा यस्मात् पितृपुत्रोक्तिलक्षणा ॥१४॥
मृत्पिण्डादय उक्ता हि दृष्टान्ताश्च त्रयस्ततः ।
उपपत्तिस्तदर्थे च सद्विद्यायां हि वर्त्तते ॥१५॥
रामानन्दार्यशिष्य श्रीअनन्तानन्दनिर्मितः ।
सद्विद्यार्थप्रदो भूयात् सद्विद्यार्थस्य निर्णयः ॥१६॥
॥ इति श्रीअनन्तानन्दाचार्यकृतं सद्विद्यार्थनिर्णयः सम्पूर्णम् ॥
vēdakṛd rāghavaṃ brahma sūtrakṛdbādarāyaṇam ।
bōdhāyanaṃ ca vandē'haṃ vṛttikṛtpuruṣōttamam॥1॥
ānandabhāṣyakṛdrāmānandācāryaṃ praṇamya ca।
mōdāya viduṣāṃ kurvē sadvidyārthasya nirṇayam॥2॥
upakramōpasaṃhārāvabhyāsō'pūrvatāphalam ।
arthavādōpapattī ca liṅgaṃ tātparyanirṇayē ॥3॥
arthanirṇāyakānīti liṅgāni ṣaḍvidhāni hi ।
kurvanti tāni nirdōṣaṃ sadvidyārthīvinirṇayam॥4॥
brahma ca saviśēṣaṃ hi sadvidyāviṣayō mataḥ।
upakramē 'sadēvēti' śrutyā yad brahma bōdhitam ॥5॥
upādānaṃ nimittaṃ ca kāraṇaṃ dvividhaṃ khalu ।
tataśca sarvaśaktitvaṃ sarvajñatvaṃ ca tatra hi॥6॥
saviśēṣaṃ tathā brahmōpasaṃhārē'pi bōdhyatē।
tatpadatvampadābhyāṃ ca sāmānādhikaraṇyataḥ॥7॥
yatastatpadataścātra paraṃ brahmaiva bōdhyatē ।
jñāpyatē tvadvapuṣkaṃ hi brahma tvampadatastathā॥8॥
prakāriṇōstataścaikyaṃ brahmaṇōratra sammatam ।
jīvātmabrahmaṇōrnaikyaṃ dēhadēhisvarūpayōḥ ॥9॥
sāmānādhikaraṇyaṃ na yadyēkavācitā na hi।
jaghanyā lakṣaṇā bōdhyā śaktitō bōdhasambhavē ॥10॥
tattvamasītivākyasya navavāraprayōgataḥ।
abhyāsō'pi vadatyatra brahmaṇaḥ saviśēṣatām॥11॥
varttatē'pūrvatā cātra yataḥ śrutyaiva niścitā ।
hētutā jagatō rāmē sakalāntarniyantṛtā ॥12॥
‘yāvanna vimōkṣyē’ śrutyāḥ ‘sampatsyē’ iti śabdataḥ ।
phalē'pi prāpyatvōktēśca brahmaṇaḥ saviśēṣatā॥13॥
tadarthē cārthavādō'pi sadvidyāyāṃ ca vidyatē।
kathitā hi kathā yasmāt pitṛputrōktilakṣaṇā ॥14॥
mṛtpiṇḍādaya uktā hi dṛṣṭāntāśca trayastataḥ ।
upapattistadarthē ca sadvidyāyāṃ hi varttatē ॥15॥
rāmānandāryaśiṣya śrīanantānandanirmitaḥ ।
sadvidyārthapradō bhūyāt sadvidyārthasya nirṇayaḥ ॥16॥
॥ iti śrīanantānandācāryakṛtaṃ sadvidyārthanirṇayaḥ sampūrṇam ॥