श्रीअनन्तानन्दाचार्यकृतं श्रीराममन्त्रराजपरम्परास्तोत्रम्

(Śrī-Rāma-Mantrarāja-Paramparā-Stōtraṃ Composed by Śrī Anantānandācārya)

परधाम्नि स्थितो रामःपुण्डरीकायतेक्षणः ।
सेवया परया जुष्टो जानक्यै तारकं ददौ ॥ १॥

श्रियः श्रीरपि लोकानां दुखोद्धरणहेतवे ।
हनूमते ददौ मन्त्रं सदा रामाङ्घ्रिसेविने ॥ २॥

ततस्तु ब्रह्मणा प्राप्तो मुह्यमानेन मायया ।
कल्पान्तरे तु रामो वै ब्रह्मणे दत्तवानिमम् ॥ ३॥

मन्त्रराजजपं कृत्वा धाता निर्मातृतां गतः ।
त्रयीसारमिमं धातुर्वसिष्ठो लब्धवान् परम् ॥ ४॥

पराशरो वसिष्ठाच्च सर्वसंस्कारसंयुतम् ।
मन्त्रराजं परं लब्ध्वा कृतकृत्यो बभूव ह ॥ ५॥

पराशरस्य सत्पुत्रो व्यासः सत्यवतीसुतः ।
पितुः षडक्षरं लब्ध्वा चक्रे वेदोपबृंहणम् ॥ ६॥

व्यासोऽपि बहुशिष्येषु मन्वानः शुभयोग्यताम् ।
परमहंसवर्य्याय शुकदेवाय दत्तवान् ॥ ७॥

शुकदेवकृपापात्रो बह्मचर्यव्रतेस्थितः ।
नरोत्तमस्तु तच्छिष्यो निर्वाणपदवीं गतः ॥ ८॥

स चापि परमाचार्यो गङ्गाधराय सूरये ।
मन्त्राणां परमं तत्त्वं राममन्त्रं प्रदत्तवान् ॥ ९॥

गङ्गाधरात् सदाचार्यस्ततो रामेश्वरो यतिः ।
द्वारानन्दस्ततो लब्ध्वा परब्रह्मरतोऽभवत् ॥ १०॥

देवानन्दस्तु तच्छिष्यः श्यामानन्दस्ततोऽग्रहीत् ।
तत्सेवया श्रुतानन्दश्चिदानन्दस्ततोऽभवत् ॥ ११॥

पूर्णानन्दस्ततो लब्ध्वा श्रियानन्दाय दत्तवान् ।
हर्यानन्दो महायोगी श्रियानन्दाङ्घ्रिसेवकः ॥ १२॥

हर्यानन्दस्य शिष्यो हि राघवानन्ददेशिकः ।
यस्य वै शिष्यतां प्राप्तो रामानन्दः स्वयं हरि ॥ १३॥

तस्माद् गुरुवारल्लब्ध्वा देवानामपि दुर्लभम् ।
प्रादात्तुभ्यमहन्तात गुह्यं तारकसंज्ञकम् ॥ १४॥

एवं परम्परा सौम्य प्रोक्ता श्रीसम्प्रदायिनाम् ।
मन्त्रराजस्य चाख्यातिर्भूम्यामेवमवातरत् ॥ १५॥

॥ इति श्रीअनन्तानन्दाचार्यकृतं श्रीराममन्त्रराजपरम्परास्तोत्रं सम्पूर्णम् ॥

paradhāmni sthitō rāmaḥpuṇḍarīkāyatēkṣaṇaḥ ।
sēvayā parayā juṣṭō jānakyai tārakaṃ dadau ॥ 1॥

śriyaḥ śrīrapi lōkānāṃ dukhōddharaṇahētavē ।
hanūmatē dadau mantraṃ sadā rāmāṅghrisēvinē ॥ 2॥

tatastu brahmaṇā prāptō muhyamānēna māyayā ।
kalpāntarē tu rāmō vai brahmaṇē dattavānimam ॥ 3॥

mantrarājajapaṃ kṛtvā dhātā nirmātṛtāṃ gataḥ ।
trayīsāramimaṃ dhāturvasiṣṭhō labdhavān param ॥ 4॥

parāśarō vasiṣṭhācca sarvasaṃskārasaṃyutam ।
mantrarājaṃ paraṃ labdhvā kṛtakṛtyō babhūva ha ॥ 5॥

parāśarasya satputrō vyāsaḥ satyavatīsutaḥ ।
pituḥ ṣaḍakṣaraṃ labdhvā cakrē vēdōpabṛṃhaṇam ॥ 6॥

vyāsō'pi bahuśiṣyēṣu manvānaḥ śubhayōgyatām ।
paramahaṃsavaryyāya śukadēvāya dattavān ॥ 7॥

śukadēvakṛpāpātrō bahmacaryavratēsthitaḥ ।
narōttamastu tacchiṣyō nirvāṇapadavīṃ gataḥ ॥ 8॥

sa cāpi paramācāryō gaṅgādharāya sūrayē ।
mantrāṇāṃ paramaṃ tattvaṃ rāmamantraṃ pradattavān ॥ 9॥

gaṅgādharāt sadācāryastatō rāmēśvarō yatiḥ ।
dvārānandastatō labdhvā parabrahmaratō'bhavat ॥ 10॥

dēvānandastu tacchiṣyaḥ śyāmānandastatō'grahīt ।
tatsēvayā śrutānandaścidānandastatō'bhavat ॥ 11॥

pūrṇānandastatō labdhvā śriyānandāya dattavān ।
haryānandō mahāyōgī śriyānandāṅghrisēvakaḥ ॥ 12॥

haryānandasya śiṣyō hi rāghavānandadēśikaḥ ।
yasya vai śiṣyatāṃ prāptō rāmānandaḥ svayaṃ hari ॥ 13॥

tasmād guruvārallabdhvā dēvānāmapi durlabham ।
prādāttubhyamahantāta guhyaṃ tārakasaṃjñakam ॥ 14॥

ēvaṃ paramparā saumya prōktā śrīsampradāyinām ।
mantrarājasya cākhyātirbhūmyāmēvamavātarat ॥ 15॥

॥ iti śrī anantānandācāryakṛtaṃ śrī-rāma-mantrarāja-paramparā-stōtraṃ sampūrṇam ॥


Share this page

 

॥ श्रीसीतारामचन्द्रार्पणमस्तु ॥